________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९९],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१९९]]
दीप अनुक्रम [२१२]
स्थाद्, अनिष्टं चैतत् , किंच-अस्तेापकत्वे लोकस्य घटपटादेरपि लोकत्वप्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकर त्वात् , किं च-अस्ति लोकः इत्येषापि प्रतिज्ञा लोक इतिकृत्वा हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्व
भावः, तदभावे किं केन सिक्ष्यतीति?, उतास्तित्वादन्यो लोक इत्येवं च प्रतिज्ञाहानिः स्यात्, तदेवमेकान्तेनैव लोकास्तित्वेऽभ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यं, तथाहि-नास्ति लोक इति ब्रुवन् वाच्यःकिं भवानस्त्युत नेति ?, यद्यस्ति किं लोकान्तर्वी न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि?, अथ बहिर्भूतस्ततः खरविषाणबदसद्भूत एवेति कस्य मयोत्तरं दातव्यम् , इत्यनया दिशैकान्तवादिनः स्वयमभ्यूह्य प्रतिक्षेप्तव्या
इति, 'एव' मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको-नियुक्तिका, एवं ध्रुवाववादयोऽपि वादा नियुक्तिका एदावति, अस्माकं तु स्याद्वादवादिनां कश्चिदभ्युपगमान्न यथोक्तदोषानुपङ्गो, यतः स्वपरसत्ताच्युदासोपादानापाद्यं हि
वस्तुनो वस्तुत्वम् , अतः स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयान्नास्तीति, उक्तं च-"सदेव सर्व को नेच्छेत् , स्वरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन व्यवतिष्ठते ॥१॥" इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात् प्रयासस्य, एवं ध्रुवाध्रुवादिष्वपि पञ्चावयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यूह्यायोज्य इति । साम्प्रतमुपसंहरति एवं' उक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञा|पितो भवति ॥ किं स्वमनीषिकया भवतेदमभिधीयते?, नेत्याह-यदिवा किम्भूतस्तहि सुप्रज्ञापितो धर्मो भवतीत्याह
से जहेयं भगवया पवेइयं आसुपन्नेण जाणया पासया अदुवा गुत्ती वओगोयरस्स
~250~