________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [५], मूलं [१९६],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१९६]
शिरसि परानीकनिशिताकृष्टकृपाणनिर्यत्प्रभासवलितोद्यत्सूर्यविडुजूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले
न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायीति । किं च-विविधं परीपहोपसगैईकान्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत |
इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपःपरीपहोपसग्गैः फलकवदवतिष्ठते न कातरीभवति, तथा कालेनो-II पनीतः कालोपनीतो-मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगहरादिस्थण्डिल
पादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः 'कालं' मरणकालमायुष्कक्षयं यावच्छरीरस्य जीवेन सार्द्ध भेदो भर वति तावदाकाडे, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति । इतिरधिकारपरिसमाप्ती, वीमीत्यादिकं पूर्ववदिति, पञ्चमोद्देशकः, तत्समाप्तौ समाप्तं धूताख्यं षष्ठमध्ययनमिति ॥ ०८३५ ।।
दीप अनुक्रम [२०९]
+
-
-
पूर्वकालात् अध्ययन - ७ व्युच्छिन्नम्, स्वयं वृत्तिकारेण अस्य अध्ययन-विषये न किंचित् अपि कथितम् |
~2324