________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१८८],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचारावृत्तिः (शी.)
सूत्रांक
[१८८]
॥२४९।।
दीप अनुक्रम [२०१]
'अनुपूर्वेण क्रमेण 'वाचिताः' पाठिताः, तत्र कालिकमहः प्रथमचतुर्थपौरुष्योरध्याप्यते उत्कालिकं तु कालवेलावज धुता सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिताः
उद्देशका शिष्याश्चारित्रं च ग्राहिताः, तद्यथा-युगमात्रदृष्टिना गन्तव्यम् कूर्मवत्सङ्कचिताऊन भाव्यमित्याद्येवं शिक्षा ग्राहिता वाचिताः-अध्यापिताः, कैरिति दर्शयति-तैर्महावीरैः-तीर्थकरगेणधराचार्यादिभिः, किम्भूतैः-प्रज्ञानवद्भिः, ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो विशेषणं, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषाम्-आचार्यादीनाम् 'अन्तिके' समीपे प्रकर्षेण ज्ञायते अनेनेति प्रज्ञानं-श्रुतज्ञानं, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद्, 'उपलभ्य' लब्धा बहुश्रुतीभूताः[5] प्रबलमोहोदयापनीतसदुपदेशोरकटमदत्वात् त्यक्त्वोपशमं, स च द्वेधा-द्रव्यभावभेदात् , तत्र द्रव्योपशमः कतर्कफलाद्यापादितः कलुषजलादेः भावोपशमस्तु ज्ञानादित्रयात् , तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा-आक्षे-14 पण्याद्यन्यतरया धर्मकथया कश्चिद् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुपशमयति, यथा श्रेणिकेनाश्रधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति, तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्येव प्लवमानास्तमेवंभूतमुपशर्म त्यक्त्वा ज्ञान|लवोत्तम्भितगाध्माताः 'पारुष्य' परुषतां 'समाददति' गृह्णन्ति, तद्यथा-परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि, अपि च-कश्चिदेव मादृशः शब्दार्थनिर्णयायालं, न सर्व Mil२४९ इति, उक्तं च-"पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदम् नः । वादिनि च मलमुख्ये च माहगेवान्तरं ग
~213~