SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [३], मूलं [१८७],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- राङ्गवृत्तिः । (शी०) सूत्रांक [१८७] ॥२४७॥ दीप रित्राभिमुखः समुत्थितोऽसावतस्तमरतिः कथं विधारयेदिति । स चैवम्भूतो न केवलमात्मनखाता परेषामप्यरतिविधार- धुता०६ कत्वात् त्राणायेत्येतदर्शयितुमाह-द्विर्गता आपोऽस्मिन्निति द्वीपः, स च द्रव्यभावभेदात् द्वेधा-तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः आश्वासश्चासौ द्वीपश्चाश्वासद्वीपो, यदिवा आश्वसनमाश्वासः, आश्वासाय द्वीप उद्देशकः३ आश्वासद्वीपः, तत्र नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोहित्थादयस्तमवाप्याश्वसन्ति, असावपि वेधा-सन्दीनोऽसन्दीन-13 श्चेति, यो हि पक्षमासादावुदकेन प्लाव्यते स सन्दीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, यथा हि सांयात्रिकात द्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वस्युः, यदिवा दीप इति प्रकाशदीपः, प्रकाशाय दीपः प्रकाशदीपः, स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विद्युदुल्कादिः सन्दीनो, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनो विपरीतस्तु सन्दीन इति, यथा ह्यसौ स्थ-15 पुटाद्यावेदनतो हेयोपादेयहानोपादानवतां निमित्तभावमुपयाति तथा कचित्समुद्राद्यन्तर्वत्तिनामाश्वासकारी च भवति एवं ज्ञानसंधानायोत्थितः परीषहोपसग्गांक्षोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति, अ-IMI परे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते-तद्यथा-भावद्वीपः सम्यत्क्वं, तच्च प्रतिपातित्यादौपशमिकं क्षायोपश|मिकं च संदीनो भावद्वीपः, क्षायिकं त्यसन्दीन इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति, भावदीपस्तु सन्दीनः श्रुतज्ञानम् असंदीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति, अथवा धर्म संद-1 P २४७॥ धानः समुत्थितः सन्नरतेर्दुष्प्रधृष्यो भवतीत्युक्त कश्चिच्चोदयेत्-किम्भूतोऽसौ धर्मो ? यत्सन्धानाय समुत्थित इति, अनुक्रम [२००] ~209~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy