________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [३], मूलं [१८५],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
%
प्रत सूत्रांक [१८५]
%432-%
CRACKCARE
%
संयमानुष्ठानेन गच्छता, पूर्वस्य तु परिमाणं वर्षाणां सप्ततिः कोटिलक्षाः षट्पञ्चाशच कोटिसहस्राः, तथा प्रभूतानि वपाणि रीयमाणानां, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्यासद्भावात् पूर्वाणीत्युक्तं, ततः आरतः श्रेयांसादारभ्य वर्षसङ्ख्यामवृत्तेर्वषाणीत्युक्तमिति, तथा 'द्रव्याणां' भव्यानां मुक्तिगमनयोग्यानां 'पश्य' अवधारय | यत्तुणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यकरणेन स्पर्शातिसहनं कृतमेतदवगच्छेति ॥ एतच्चाधिसहमानानां यत्स्यात्तदाह
आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कद्दु परिन्नाय, एस तिपणे मुत्ते विरए वियाहिए तिबेमि (सू० १८६) आगतं प्रज्ञानं पदार्थाविर्भावक येषां ते तथा तेषामागतप्रज्ञानानां तपसा परीपहातिसहनेन च कृशा 'बाह्यः' भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीपहादावागतप्रज्ञानत्वाद् 'बाधाः' पीडाः कृशा भवन्ति, कर्मक्षपणायोस्थितस्य शरीरमात्रपीडाकारिणः परीपहोपसर्गान सहायानिति मन्यमानस्य न मनःपीडोत्पद्यत इति, तदुक्तम्-"णिम्मा
णेइ परो चिय अप्पाण उण वेयणं सरीराणं । अप्पाणो चिअ हिअयस्स ण उण दुक्खं परो देह ॥ १॥" इत्यादि, M|शरीरस्य तु पीडा भवत्येवेति दर्शयितुमाह-प्रतनुके च मांसं च शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहार
विदधाति परो नैवात्मनो वेदनां शरीराणाम् । आत्मन एव हृदयस्य न पुनर्तुःख परो ददाति ॥ १॥
दीप अनुक्रम [१९८]
%
%-2-%
0-0-%
1
~206~