________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [३], मूलं [१८५],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१८५]
दीप अनुक्रम [१९८]
शय्याशायिनं तृणानां स्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शा:-दुःखविशेषास्तुणस्पर्शास्ते कदाचित् स्पृशन्ति, तांश्च सम्यम् अदीनमनस्कोऽतिसहत इति सम्बन्धः, तथा शीतपाः स्पृशन्ति-उपतापयन्ति, तेजः-उष्णस्तत्स्पर्शाः स्पृशन्ति, तथा दंशमशकस्पर्शाः स्पृशन्ति, एतेषां तु परीपहाणामेकतरेऽविरुद्धा दंशमशकतॄणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीषहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्प्युः, प्रत्येक बहुवचननिर्देशश्च तीवमन्दमध्यमावस्थासंसूचकः, इत्येतदेव दर्शयति-विरूपं-बीभत्सं मनोऽनाहादि विविध वा मन्दादिभेदादूपं-स्वरूपं येषां ते विरूपरूपाः, के ते?-स्पर्शाः' दुःखविशेषाः, तदापादकास्तृणादिस्पर्शा वा, तान् सम्यकरणेनापध्यानरहितोऽधिसहते, कोऽसौ?-'अचेलः' अपगतचेलोअल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते, किमभिसन्ध्य परीषहानधिसहत इत्यत आह-लघोर्भावो लाघवं, द्रव्यतो भावतश्च, द्रव्यतो झुपकरणलाघवं भावतः कर्मलाघवं 'आगमयन्' अवगमयन बुध्यमान इतियावद् अधिसहते परीपहोपसम्र्गानिति, नागार्जुनीयास्तु पठन्ति-"एवं खलु से उवगरणलापचियं तवं कम्मक्खयकारणं करेइ" 'एवम्' उक्कक्रमेण भावलाघवार्थमुपकरणलाघवं तपश्च करोति इति भावार्थः । किं च-से' तस्योपकरणलाघवेन कर्मलाघवमागमयतः कर्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य 'तपः' कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति-सम्यम् आभिमुख्येन सोढं भवति । एतच्च न मयोच्यते इत्येतद्दर्शयितुमाह-'यथा' येन प्रकारेण |'इद'मिति यदुक्तं वक्ष्यमाणं चैतनगवता-वीरवर्द्धमानस्वामिना प्रकर्षणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता || प्रवेदितं ततः किमित्याह-तद्-उपकरणलाघवमाहारलाघवं वा 'अभिसमेत्य' ज्ञात्वा एवकारोऽवधारणे, तदेव लापर्व |
~ 204~