________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१८०],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
कहेतौ विघटितमोहकपाटः सन् रतिं कुर्यादिति ? । उपसंहारमाह-एतत् पूर्वोक्तं ज्ञानं सदा आत्मनि 'सम्यगनुवादासयेः' व्यवस्थापयेः, इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । धूताध्ययनस्य प्रथमोद्देशकः समाप्तः ।।
प्रत सूत्रांक [१८०]
दीप
अनुक्रम [१९३]
। उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके निजकविधूनना प्रतिपादिता, सा चैवं फलवति स्याद्यदि कम्मविधूननं स्याद् , अतः कर्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
आउरं लोगमायाए चइत्ता पुब्वसंजोगं हिच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अ
णुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला (सू० १८१) 'लोक' मातापितृपत्रकलत्रादिकं तमातुरं स्नेहानुषणतया वियोगात् कार्यावसादेन वा यदिवा जन्तुलोक कामरा-|| गातुरम् 'आदाय' ज्ञानेन 'गृहीत्वा' परिच्छिद्य तथा त्यक्त्वा च 'पूर्वसंयोग' मातापित्रादिसम्बन्धं, तथा हित्वा गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयति-वसु द्रव्यं तद्भूतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुबसु सराग इत्यर्थः, यदिवा वसुः-साधुः अनुवसुः-श्रावकः, तदुक्तम्-"वीतरागो वसुइँयो, जिनो वा संयतोऽथवा । सरागो ह्यऽनुवमुः प्रोक्तः, स्थविरः श्रावकोऽपि वा ॥ १॥" तथा ज्ञात्वा 'धर्मे श्रुतचारित्राख्यं
| षष्ठं-अध्ययने द्वितीय-उद्देशक: 'कर्मविधुनन' आरब्ध:,
~194~