SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०४...], नियुक्ति: [२०७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१०४] दीप अनुक्रम [१०८] भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, 'एष' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो। वा सुखदुःखरूपो विवक्षावशाद्भवतीति गाथार्थः॥ साम्प्रतं सुखपदविवरणायाह| निब्याणसुहं सायं सीईभूयं पयं अणाबाहं । इहमवि जं किंचि सुहं तं सीयं दुक्खमवि उपहं ॥ २०८ ॥ I सुखं शीतमित्युक्तं, तच समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्तिसु8 खमेव सुखं नापरम्, एतच्च समस्तकम्मोपतापाभावाच्छीतमिति दर्शयति-'निर्वाणसुख'मिति, निर्वाणम्-अशेषकर्मक्ष-18 यस्तदवाप्ती वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम् , अस्य चैकार्थिकानि-सात शीतीभूतं पदमनाबाधमिति । इहापि संसारे यत्किञ्चित् सातावेदनीयविपाकोद्भूतं सात-सुखं तदपि शीतं मनआल्हादाद्, एतद्विपयर्यस्तु दुःखं, तच्चोष्णमिति गाथार्थः ।। कषायादिपदव्याचिख्यासयाह डज्झइ तिब्वकसाओ सोगभिभूओ उइन्नवेओ य । उण्हयरो होइ तवो कसायमाईवि जं डहइ ॥२०९॥ | 'दह्यते' परिपच्यते, कोऽसौ ?-'तीवा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाऽभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभव्यापारोऽसावपि दह्यते, तथा उदीर्णोविपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तत्राप्त्यभावे कासोद्भूतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्व वा मोहनीयमष्टप्रकारं वा कम्मोष्णं, ततोऽपि तदाहकत्वादुष्णतरं तप इति गाथाशकलेन ~16~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy