________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [५], मूलं [१६१],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१६१]
मलत्यादुर्गन्धिवपुषस्तान्निन्दति-को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सां * विद्वज्जुगुप्सां वा सम्यगापन:-प्राप्तः आत्मा यस्य स तथा तेन विचिकित्सासमापन्नेनात्मना नोपलभते 'समाधि' चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तं न लभते, विचिकित्साकलुपिन्तान्तःकरणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाख्यां बोधि नावामोति । यश्चावाप्नोति स गृहस्थो वा स्याद्यतिति दर्शयितुमाह-'सिताः' पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एके' लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्ति-आचार्योक्तं प्रतिपद्यन्ते, तथा 'असिता वा' गृहवासविमुक्का वा 'एके' विचिकित्सादिरहिता आचार्यमार्गमनुगच्छन्ति । तेषां च मध्ये | यदि कश्चित् कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कम्मवियरतः प्रतिपघेतापीति | दर्शयितुमाह-आचायोक्तं सम्यक्त्वमनुगच्छद्भिर्विरताविरतैः सह संबसंस्तैर्वा चोद्यमानोऽननुगच्छन्-अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद्?, असदनुष्ठानस्य मिथ्यात्वादिरूपां विचिकित्सा परित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यतेत्यर्थः, यदिवा सितासितैराचार्योक्तमनुगच्छद्भिः-अवगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाध्यतया क्षपकादिश्चिरप्रवजितोऽप्यननुगच्छन्-अनवधारयन् कथं न निर्विद्येत?, न निर्वेद तपःसंयमयोर्गच्छेत् , निर्विष्णश्चेदमपि भाव
येत्, यथा-नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवं च निर्विMण्णस्याचार्याः समाधिमाहुः-यथा-भोः साधो! मा विषादमवलम्बिष्ठा, भव्यो भवान् , यतो भवता सम्यक्त्वमभ्युपगतं,
तच न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः॥ किं चायं विर
44RRCCCRAC+
दीप अनुक्रम [१७४]
~158~