________________
आगम
(०१)
प्रत
सूत्रांक
[१४६ ]
दीप
अनुक्रम [१५९ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [२], मूलं [१४६],निर्युक्तिः [२४९]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचा 'यावन्तः' केचन 'लोके' मनुष्यलोके 'अनारम्भजीविनः' आरम्भः सावयानुष्ठानं प्रमत्तयोगो वा उक्तं च- “आदाणे राङ्गवृत्तिः निकूखेवे भासुरसग्गे अ ठाणगमणाई । सब्बो पमत्तजोगो समणस्सवि होइ आरंभो ॥ १ ॥” तद्विपर्ययेण खनारम्भस्तेन (शी०) * जीवितुं शीलं येषां इत्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताः तेष्वेव गृहिषु पुत्रकलत्रस्खशरीराद्यर्थमारम्भप्रवृत्तेष्व
॥ २०४ ॥
नारम्भजीविनो भवन्ति, एतदुक्तं भवति - सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काॐ धारपङ्कजवन्निर्लेपा एव भवन्ति । यद्येवं ततः किमित्याह - 'अत्र' अस्मिन् सावद्यारम्भे कर्त्तव्ये 'उपरतः ' सङ्कुचितगात्रः, अत्र वाऽऽर्हते धर्मे व्यवस्थित उपरतः पापारम्भात्, किं कुर्यात् स ? - 'तत्' सावधानुष्ठानायातं कर्म 'झोषयन्न क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह - 'अयं संधी' इत्यादि, अविवक्षितकर्म्मका अप्यकर्मका धातवो यथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतत्क्रियायोगेऽप्ययं सन्धिरिति प्रथमा कृतेति, 'अय' मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्र सुकुलोसत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणः 'सन्धिः' अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्म्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भवानित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् । कश्च न प्रमत्तः स्यादित्याह - 'जे इमस्स' इत्यादि, 'य' इत्युपलब्धतस्त्वः 'अस्य' अध्यक्षस्य विशेषेण गृह्यते अनेनाष्टप्रकारं कर्म तद्वेतरशरीरविशिष्टं वाह्येन्द्रियेण गृह्यत इति विग्रह:- औदारिकं शरीरं तस्य 'अयं' वार्त्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्च गतः एवम्भूतश्च भावीत्येवं
आदाने निक्षेपे भाषायामुत्सर्गे च स्थाने गमनादौ सर्वः प्रमत्तयोगः श्रमणस्यापि भवत्वारम्भः ॥ १ ॥
For Parts Only
~123~
लोक० ५ उद्देशकः २
॥ २०४ ॥