________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१४५...],नियुक्ति : [२४६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
लोक०५ उद्देशका
सूत्रांक
[१४५]
दीप अनुक्रम [१५८]
श्रीआचा- त्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति । राजवृत्तिः तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिकनियुक्त्या नियुक्तिकारो ग्याचिख्यासुराह(शी०)
चारो चरिया चरणं एगद वंजणं तहिं छकं दब्वं तु दारुसंकम जलथलचाराइयं बहुहा ॥ २४६॥
'चार' इति 'चर गतिभक्षणयोः भावेघञ्, चयेति 'गदमदचरयमश्चानुपसर्गे' (पा०३-१-१००) इत्यनेन कर्मणि भावे वा] ॥२०॥
यत् , चरणमिति वा, भावे युद, एकः-अभिन्नोऽर्थोऽस्येत्येकार्थ, किं तत्-'व्यञ्जनं' व्यग्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जन-शब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथर निक्षेपः, 'तत्र' चारनिक्षेपे पटूं, चारस्य पट्पकारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचार गाथाशकलेन दर्शयति-'दच्वं तु' ति तुशब्दः पुनःशब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्कमश्च जलस्थलचारश्च दारुसमजलस्थलचारी तावादी यस्य तदारुसङ्कमजलस्थलचारादिकं 'बहुधा' अनेकधा, तब दारुसङ्कमो जले सेत्वादिः
क्रियते, स्थले वा गर्तलानादिका, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादी सोपानपसावधादिरिति, यद्यद्देशादेशान्तरावाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः । साम्प्रतं क्षेत्रादिकमाह
खितं तु जंमि खित्ते कालो काले जहिं भवे चारो भामि नाणदसणचरणं तु पसत्थमपसत्यं ॥२४७॥ I क्षेत्र पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं स कालचारः, भावे तु द्विधा चरण-प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तं गृहस्थान्य
॥२०२॥
~119~