________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१७...], नियुक्ति : [१०६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१७]]
दीप अनुक्रम [१८]
अपकायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, 'नानात्वं' भेदरूपं विधानपरिमाणोपभोगशस्त्रविपत्यं द्रष्टव्यं, चशब्दाल्लक्षणविषयं च, तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति ॥ तत्र विधानं -प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाहदुविहा उ आउजीवा सुहुमा तह बायरा य लोगंमि । मुहमा य सव्वलोए पंचेव य बायरविहाणा ॥१०७॥
स्पष्टा ॥ तत्र पञ्च बादरविधानानि दर्शयितुमाहसुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव । थायर आउविहाणा पंचविहा वणिया एए॥१०८॥ | शुद्धोदक' तडागसमुद्रनदीहदावटादिगतमवश्यायादिरहितमिति, 'अवश्यायो' रजन्यां यस्खेहः पतति, हिमं तु दाशिशिरसमये शीतपुद्गलसम्पोजलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोहरिताङ्करमस्तकस्थितो जलबिन्दुभूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिताः। ननु च प्रज्ञापनायां बादराप्कायभेदा बहवः परिपठितार, तद्यथा-करकशीतोष्णक्षारक्षत्रकदम्ललवणवरुणकालोदपुष्करक्षीरघृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः ?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्त:पाती, शेषास्तु स्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमतिवर्तन्ते, यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः, उच्यते, स्त्रीबालमन्दबुद्ध्यादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थ पाठः१, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादा, तत्र युक्तः सकलभेदोपन्यासः ख्याद्यनुग्रहाय, नियुक्तयस्तु सूत्रार्थ पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः। त एते बादराप्कायाः
[90]