________________
गम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१], नियुक्ति: [३७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
-
4
-
पी
भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायत इत्यर्थः, उक्तः पदार्थः, पदविग्रहस्य तु सामासिकपदा-18 भावादप्रकटनम् । इदानी चालना-ननु चाकारादिकप्रतिषेधकलघुशब्दसंभवे सति किमर्थ नोशन्देन प्रतिषेधः इति ?, अत्र प्रत्यवस्था, सत्यमेवं, किंतु प्रेक्षापूर्वकारितया नोशब्दोपादानं, सा चेयम्-अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटोऽघट इति चोक्त सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां/ सर्वासां प्रतिषेधः प्रामोतीतिकृत्वा, ताशेमाः-"काणं भंते ! सण्णाओ पणत्ताओ?, गोयमा! दस सण्णाओ पण्णताओ, तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसपण"त्ति, आसां च प्रतिषेधे स्पष्टो दोषः, अतोनोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथा-13 शहि-नोघट इत्युक्ते यथा घटाभावमात्र प्रतीयते, तथा प्रकरणादिप्रंसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्यावयवो
ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्-"प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः। स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् ॥१॥" इति, एवमिहापि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति । साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह
१ कति भदन्त ! संज्ञाः प्राप्ताः १, गौतम! दश संक्षा प्राप्ताः, तद्यथा-आहारसंज्ञा भयसंज्ञा मधुनसंझा परिग्रहसंज्ञा कोवसंज्ञा मानसंज्ञा मायासंशा लोभसंज्ञा ओषसंज्ञा लोकसंज्ञा.
१. घटाभावमात्रं प्रतीयते अर्थप्रसकनिषेधेन चाप्रसकरय प्र.
सूत्राधिकारे प्रथमं सूत्रम्, संज्ञा शब्दस्य विविध भेदा:
[34]