________________
आगम
(०१)
प्रत
सूत्रांक
[१०१]
दीप
अनुक्रम [१०५]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०१], निर्युक्तिः [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
उद्देशकः ६
॥ १४५ ॥
श्रीआचाच । किं च' इति कम्' इत्यादि, इतिः पूर्वप्रक्रान्तपरामर्शको यत्तद्दुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञां लोक.वि. २ राङ्गवृत्तिः ४ कुशला उदाहरन्ति तद्दुःखं कर्म्मकृतं तत्कर्म्माष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि च तद्यथा - ज्ञानप्रत्यनीकतया ज्ञाना- २ (शी०) वरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु 'सर्वशः' सर्वैः प्रकारैर्योगत्रिककरणत्रिकरूपैर्न वर्त्तेत अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा, यदिवा सर्वशः कथ५ यति आक्षेपण्याचा चतुर्विधया धर्मकथयेति । सा च कीटकथेत्याह- 'जे' इत्यादि, अन्यद्रष्टुं शीलमस्येत्यन्यदर्शी यस्तथा नासावनन्यदर्शी - यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो ? - यः सम्यग्दृष्टिमनीन्द्रमवचनाविभूततत्त्वार्थो, यश्चानन्यदृष्टिः सोऽनन्यारामो-मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह- 'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति उक्तं च- "शिवमस्तु कुशास्त्राणां वैशेषिकपष्टितन्त्रत्री|द्धानाम् । येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः ॥ १ ॥" इत्यादि । तदेवं सम्यक्त्वस्वरूपमाख्यातं कथयंश्चारक्तद्विष्टः कथयतीति दर्शयति- 'जहा पुण्णस्स' इत्यादि, तीर्थकरगणधराचार्यादिना येन प्रकारेण 'पुण्यवतः' सुरेश्वरचक्रवर्त्ति| माण्डलिकादेः 'कथ्यते' उपदेशो दीयते 'तथा' तेनैव प्रकारेण 'तुच्छस्य' इमकस्य काष्ठहारकादेः कथ्यते, अथवा पूर्णो
१ कथाचतुष्टय लक्षणं विदंस्थाप्यते हेतुदृष्टान्तैः समतं यत्र पण्डितैः । स्याद्वादध्वनिसंयुक्तं, या कथाऽऽक्षेपणी मता ॥ १ ॥ मिथ्यादृशां मतं यत्र पूर्वापरविरोधकृत् । तनिराक्रियते सद्भिः सा च विक्षेपणी मता ॥२॥ यस्याः श्रवणमात्रेण भवेन्मोक्षाभिलाषिता । भव्यानां सा च विद्वद्भिः प्रोता संवेदनी कथा ॥३॥ यत्र संसारभोगान स्थितिलक्षणवर्णनम् । वैराग्यकारणं भव्यैः, सोफा निर्वेदनीकथा ॥ ४ ॥
Educatin internation
For Parts Only
[301]
।। १४५ ।।