________________
आगम
(०१)
प्रत
सूत्रांक
[८]
||12||
दीप
अनुक्रम
[१००+
१०१]
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [९८, गाथा- १], निर्युक्तिः [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
ज्ञेयो विदित्वा 'लोकं' परिग्रहाग्रहयोग विपाकिनमे केन्द्रियादिप्राणिगणं 'वान्त्वा' उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तां 'स' इति मुनिः, किंभूतो ? - ' मतिमान्' सदसद्विवेकज्ञः 'पराक्रमेथाः ' संयमानुष्ठाने समुद्यच्छेः, संयमानुष्ठानोद्योगं सम्यग्विदध्या इतियावद्, अथवाऽष्टप्रकारं कर्मारिषड्वर्ग वा विषयकपायान् वा पराक्रमस्वेति, इतिरधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह-तस्य हि त्यक्तगृह गृहिणीधन हिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात्, तामुत्पन्नां संयमविषयां 'न सहते' न क्षमते, कोऽसौ ?- विशेषेणेरयति--प्रेयरति अष्टप्रकारं कर्म्मारिपड़र्गे येति वीरः शक्तिमान्, स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां 'न सहते' न मर्षति, या चारतिः संयमे विषयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयति-यस्मात्त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरो 'न रज्यति' शब्दादिविषयग्रामे न गा विदधाति । यत एवं ततः किमित्याह-
सद्दे फासे अहियासमाणे निव्विंद नंदि इह जीवियस्स । मुणी मोणं समायाय, धुणे कम्मसरीरगं ॥ २ ॥ पंतं लूहं सेवंति वीरा संमत्तदंसिणो । एस ओहंतरे मुणी तिन्ने मुत्ते विरए वियाहिए तिबेमि ( सू० ९९ )
For Parts Only
[296]