________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [८०], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [८०
दीप
तमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह-सवेसिं' इत्यादि, सर्वेषामविगानेन 'जीवितम्' असंयमजीवितं 'प्रियं' दयितं, यद्येवं ततः किमित्यत आह-तं परिगिज्झ तद्-असंयमजीवितं 'परिगृह्य' आश्रित्य, किं कुर्वन्तीत्याह। 'दुपय' इत्यादि, 'द्विपद' दासीकर्मकरादि 'चतुष्पदं' गवाश्वादि 'अभियुज्य' योजयित्वा अभियोगं ग्राहयित्वा व्यापाहारयित्वेत्युक्तं भवति, ततः किमित्यत आह-'संसिंचिया गं' इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादि-1
व्यापारेण 'संसिच्य' अर्थनिचर्य संवर्य 'त्रिविधेन' योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां वयपि फल्गुदेश्या 'से' तस्यार्थारम्भिणः सा चार्थमात्रा 'तत्र' इति द्विपदाद्यारम्भे 'मात्रा' इति सोपस्कारत्वात्सूत्राणां अर्थमात्रा-अल्पता भवति' सत्तां बिभर्ति, किंभूता?, सा सूत्रेणैव कथयति-अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्या सर्वाऽपि वही 'स' इत्यर्थवान् 'तत्र' तस्मिन्नर्थे 'गृद्धः' अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशं न गणयति रक्षणपरिश्रमं न विवेचयति तरलतां नावधारयति फल्गुताम्, उक्तं च-कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिपम् । सुरपतिमपि श्या पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ॥१॥” इत्यादि, सच किमर्थमर्थमर्थयत इत्यत आह-भोयणाए' भोजनम्-उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्तते, क्रियावतश्च किं भवतीत्याह-'तओ से' इत्यादि, ततः 'से' तस्यावलगनादिकाः क्रियाः कुर्वतः 'एकदा' लाभान्तरायकम्र्मक्षयोपशमे 'विविध नानाप्रकारं 'परिशिष्टं' प्रभूतत्वाअक्तोद्धरितं | 'सम्भूतं' सम्यक्परिपालनाय भूत-संवृत्तं, किं तत्?, महच्च तत्परिभोगाङ्गत्वादुपकरणं च महोपकरणं-द्रव्यनिचय
अनुक्रम [८१+
[256]