SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [७७] दीप अनुक्रम [ ७८ ] [भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) - श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [७७], निर्युक्ति: [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ... आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः विभाति तस्यैवोदयः सत्कर्म्मता तूभयस्य षष्ठसप्तमभङ्गौ तूपरतबन्धस्य भवतः, अविषयत्वान्न ताभ्यामिहाधिकारः, तौ चेमौबन्धोपरमे उच्चैर्गोत्रोदयः सत्कर्म्मता तूभयस्येति षष्ठः, सप्तमस्तु शैलेश्यवस्थायां द्विचरमसमये नीचैर्गोत्रे क्षपिते उच्चगोत्रोदयस्तस्यैव सत्कर्म्मतेति, तदेवमुच्चावचेषु गोत्रेषु असकृदुत्पद्यमानेनासुमता पञ्चभङ्गकान्तर्वर्त्तिना न मानो विधेयो नापि दीनतेति । तयोश्चोच्चावचयोः गोत्रयोर्बन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह- 'णो हीणे णो अइरिते' यावन्त्युच्चैर्गोत्रे ऽनुभावबन्धाध्यवसाय स्थानकण्डकानि नीचैर्गोत्रेऽपि तावन्त्येव, तानि च सर्वाण्यप्यसुमताऽनादिसंसारे भूयो भूयः स्पर्शितानि तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न होनो नाप्यतिरिक्तः, एवं नीचैर्गोत्र कण्डकार्थतयाऽपीति । नागार्जुनीयास्तु पठन्ति - "एगमेगे खलु जीवे अईअद्धाए असई उच्चागोए असई नीआगोए, कंडगट्टयाए नो हीणे नो अइरित्ते" एकैको जीवः खलुशब्दो वाक्यालङ्कारे अतीते कालेऽसकृदुच्चावचेषु गोत्रे प्रसन्नः, स चोच्चावचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्त इति, तथाहि उच्चैर्गोत्रकण्डकेभ्य एकभविकेभ्योऽनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षापकर्षो न विधेयो, अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यं । यतञ्चोच्चावचेषु स्थानेषु कर्म्मवशादुद्यन्ते, चलरूपलाभादिमदस्थानानां चासमञ्जसतामवगम्य किं कर्त्तव्यमित्याह - 'नोऽपीहए' अपिः सम्भावने स च भिन्नक्रमो जात्यादीनां मदस्थानानामन्यतमदपि नो 'ईहेतापि' नाभिलषेदपि अथवा नो स्पृहयेत्-नावकाङ्क्षदिति । तत्र यद्युच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह - 'इय संखाय' इत्यादि, इतिरुपप्रदर्शने 'इति' एतत्पूर्वोक्तनीत्योच्चावच स्थानोत्पादादिकं 'परिसंख्याय' ज्ञात्वा 'को गोत्रवादी Education internation For Parts Only [246]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy