SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६७], नियुक्ति: [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: N प्रत सूत्रांक S -450-% [६७] दीप इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह-'तओ से' इत्यादि, 'ततो' द्रव्यसनिधिसन्नि|चयादुत्तरकालमुपभोगावसरे 'से'तस्य बुभुक्षोः 'एकदेति द्रव्यक्षेत्रकालभावनिमित्ताविर्भावितवेदनीयकम्र्मोदये 'रोगसकामपादाः ज्वरादिप्रादुर्भावाः 'समुत्पद्यन्त' इत्याविर्भवन्ति । स च तैः कुवराजयक्ष्मादिभिरभिभूतः सन्मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाकुलः किंभूतो भवति इत्याह-'जेहिं' इत्यादि, 'य'मातापित्रादिभिर्निजैः सार्द्ध संवसति त एव वा निजाः 'एकदा'रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति, स वा तामिजान्पश्चात्परिभवोत्थापितविवेकः 'परिहरेत्' त्यजेत् , तन्निरपेक्षः सेडुकवत् स्यादित्यर्थः, ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वान त्राणाय भवन्तीति दर्शयति'नाल'मित्यादि, पूर्ववद्, रोगाद्यभिभूतान्तःकरणेन चापगतत्राणेन च किमालम्ब्य सम्यक्करणेन है रोगवेदनाः सोढन्याः? इत्याह जाणित्तु दुक्खं पत्तेयं सायं (सू०६८) ज्ञात्वा प्रत्येक प्राणिनां दुःखं तद्विपरीतं सातं वाऽदीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च-"सह कलेवर! दुःखमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा । सा बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥१॥" यावच्च श्रोत्रादिभिर्विज्ञानैः परिहीयमानः जरा जीर्ण न निजाः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय || इत्येतद्दर्शयति % अनक्रम % [228]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy