SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [६४] दीप अनुक्रम [ ६५ ] [भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) - श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६४], निर्युक्ति: [१८६] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः भवान् न पश्यति आत्मानं नावलोकयति शिरः पलित भस्मावगुण्डितं मां दुहितृभूतमेवं गूहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्म्मवलीकः स नैव शोभते, उक्तं च- "न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ तेषु च वर्त्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥ १ ॥ जं 'जं करेइ तं तं न सोहए जोन्वणे अतिकंते । पुरिसस्स महिलियाइ व एक्कं धम्मं पमुत्तूर्णं ॥ २ ॥ गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि णो पमायए वओ अचेति जोव्वणं व ( सू० ६५ ) अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह 'इच्छेव' मित्यादि, 'इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूपायै प्रत्येकं च शुभाशुभकर्म्मफलं प्राणिनामित्येवं मत्वा समुत्थितः - सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो - इत्याश्चर्ये विहरणं बिहारः आश्चर्यभूतो विहारो अहोबिहारो - यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोस्थितः सन् क्षणमपि नो प्रमादयेदित्युत्तरेण सण्टङ्कः, किंच- 'अंतरं चेत्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्र सुकुलोत्पत्तिबोधिलाभ सर्व विरत्यादिकं, चः समुच्चये, खलु १ यत्करोति तत्तन शोभते यौवनेऽतिक्रान्ते पुरुषस्य महिलाया वा एक धर्म्म प्रमुख्य ॥ २ ॥ For Parts Only [224]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy