________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६४], नियुक्ति : [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[६४)
दीप
पचितकलाकुशलेषु समस्तकार्यचिन्ताभारं निचिक्षेप । तेऽपि वयमनेनेदृशीमवस्थां नीताः सर्वजनाग्रेसरा विहिता इति
कृतोपकाराः सन्त कुलपुत्रतामवलम्बमानाः स्वतः कचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजजागरन् , &ाता अप्युद्वर्तनसानभोजनादिना यथाकालमक्षुण्णं विहितवत्यः। ततो गच्छत्सु दिवसेषु वर्धमानेषु पुत्रभाण्डेषु प्रौढी
भवत्सु भर्तृषु जरद्वृद्धे च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषश्रोतसि सति शनैः शनैरुचितमुपचार शिथिलतां | |निन्युः । असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विनसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षुण्णान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तन
भिहितवत्यः-क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपडते, यदि भवतामप्यस्माकमुपर्यविस्रम्भस्ततो8ऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वो अपि सर्वाणि कार्याणि यथाऽवसरं विहि-18
तवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किञ्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्वैर्यथाऽयमुपचर्यमाणोऽपि वार्द्धक्याद्रोरुद्यते, ततस्तैरप्यवधीरितोऽन्येषामपि यथावसरे तद्भण्डनवभावतामाचचक्षिरे । ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजननावगीतो वाङ्मात्रेणापि केनचिदप्यननुवय॑मानः सुखितेषु दुःखितः कष्टतरामायुःशेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः | सन् कार्येकनिष्ठलोकात्परिभवमानोतीति, आह-"गात्रं सङ्कचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिश्यति रूपमेव
१ स्मृतोपकाराः २ असमर्थ.
अनक्रम
[222]