________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६३], नियुक्ति : [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
क
4
प्रत सूत्रांक [६३]
%%%
दीप
जघन्यतस्त्वङ्गालासख्येयभागविषयत्वं सर्वेषाम्, अत्र च 'सोयपरिण्णाणेहिं परिहायमाणेही त्यादि य उत्पत्तिं प्रति व्यत्ययेनेन्द्रियाणामुपन्यासः स एवमर्थ द्रष्टव्यः-इह संजिनः पश्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रिय
विषय इतिकृत्वा तत्सर्याप्ती च सर्वेन्द्रियपर्याप्तिः सूचिता भवति । श्रोत्रादिविज्ञानानि च वयोऽतिकमे परिहीयन्ते, तदेदावाह-'अभिकत'मित्यादि, अथवा श्रोत्रादिविज्ञानरपचितैः करणभूतैः सद्भिः 'अभिकतं च खलु वयं स पेहाए' तन्त्र
प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयः तज्जरामभि-मृत्यु वा क्रान्तमभिकान्तम् , इह हि चत्वारि वयांसि-कुमार-2 यौवनमध्यमवृद्धत्वानि, उक्तंच-"प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे कि करिष्यति ? ॥१॥" तत्राद्यवयोद्वयातिकमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा श्रीणि वयांसि-कौमारयौवनस्थविरत्वभेदादू, उक्तं च-"पिता रक्षति कौमारे, भत्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमहति ॥१॥” अन्यथा वा त्रीणि वयांसि, बालमध्यवृद्धत्वभेदात् , उक्तं च-आषोडशाद्भवेद्वालो, यावत्क्षीरानवर्तकः । मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते ॥१॥" एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिकान्तोऽतिक्रान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्माणरसनस्पर्शनविज्ञानैर्व्यस्तसमस्तैर्देशतः सर्वतो वा परिहीयमाणैर्वा मौव्यमापद्यते, वयश्चातिकान्तं 'प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेण-अत्यर्थं मौल्यमापद्यत इति, आह च-ततो से' इत्यादि, 'तत' इति तस्मादिन्द्रियविज्ञानापचयादयोऽतिक्रमणाद्वा स इति प्राणी 'एकदेति वृद्धाव
१ चक्षुषः संख्येयभागे यद्यपि तथापि सर्वेषां विषयस्य सामान्येन विवक्षणादित्यमुक्त
अनक्रम
*55 -
45-4
*
[220]