________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६२], नियुक्ति: [१८४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६२]
दीप
अहो य राओ य परितप्पमाणे कालाकालसमुहाई संजोगट्टी अट्टालोभी आलुपे सहसाकारे विणिविटुचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिं माण
वाणं तंजहा-॥ ६२॥ अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रसम्बन्धः-'से हु मुणी परिण्णायकम्मे'ति, स मुनिः परिज्ञातकर्मा भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु 'से जं पुण जाणिज्जा सहसंमुइयाए बापरवागरणेणं अण्णेसिं था सोचा' स्वसम्मत्या परव्याकरणेन तीर्थंकरोपदेशादन्येभ्यो वाऽऽचायोंदिभ्यः श्रुत्वा जानी-15
यात्-परिच्छिन्द्यात्, किं तदित्युच्यते-'जे गुणे से मूलठाणे', आदिसूत्रसम्बन्धस्तु 'सुयं मे आउसंतेणं भगवया एवमक्खाय' किं तत् श्रुतं भवता यद्भगवता आयुष्मताऽऽख्यातमिति?, उच्यते, 'जे गुणे से मूलढाणे, 'य' इति सर्वनाम प्रथमान्तं मागधदेशीवचनत्वादेकारान्तं सामान्योद्देशार्थाभिधायीति, गुण्यते-भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, 'स' इति सर्वनाम प्रथमान्तमुद्दिष्ट निर्देशार्थाभिधायीति, 'मूल'मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निति स्थानं, मूलस्य स्थानं मूलस्थानं, 'व्यवच्छेदफलत्वाद् वाक्याना'मिति न्यायात् य एव शब्दादिकः कामगुणः स एव संसारस्य-नारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानम्आश्रयो वर्तते, यस्मान्मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमिति-कारणं, तच्चा
HTRANSKRIT
अनक्रम
[६३
[208]