________________
आगम
(०१)
प्रत
सूत्रांक
[६१]
दीप
अनुक्रम [६२]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६१...], निर्युक्तिः [१८३]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र - [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
स्रस्य द्वौ सप्तभागौ पल्योपमासङ्ख्येयभागन्यूनाबन्तर्मुहूर्त्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकर नाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहूर्त्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति १, उच्यते, उत्कृष्टात् सख्येयगुणहीनो जघन्य इति, यशः कीर्त्त्य वर्गोत्रयोरष्टमुहूर्त्ताम्यन्तर्मुहूर्तमबाधा, देवनारकायुषोर्दश वर्षसहस्राण्यन्तर्मुहूर्तमबाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्त्तमचाधेति, बन्धनसङ्घातयोरीदारिकादिशरीर सङ्घ चरितत्वात्तद्गत एवो त्कृष्टजघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिबन्धः, अनुभाववन्धस्तूच्यते तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोगकर्मणोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः, तत्राशुभप्रकृतीनां कोशातकीरससमक्कथ्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यो मन्दानुभावस्तु जातिरसै कद्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः अत्र च कोशातकी क्षुरसादावुदकविन्द्रादिप्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि आनुपूर्व्यः क्षेत्रविपाकिन्यः शरीर संस्था नाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलधूपघातपराघातोद्योतातपनिर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः पुद्गलविपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः । | प्रदेश बन्धस्त्वेकविधादिवन्धकापेक्षया भवति, तत्र यदैकविधं बनाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः साताबेदनीयभावेन विपरिणमन्ते, षड्धिबन्धकस्य त्वायुम्मोहनीयवज्र्जः पोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्याष्टधेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्पबहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयति-तत्रा
Education Internation
For Parts Only
[204]