________________
आगम
(०१)
प्रत
सूत्रांक
[६१]
दीप
अनुक्रम [६२]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६१...], निर्युक्ति: [ १८३] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र - [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
परि रूपादिप्रवृत्या जघन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत्, तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवति - अध्रुववर्गणोपरि प्रदेशवृद्धयाऽनन्ता अपि न सम्भवन्तीति प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघन्यातः क्षेत्रपल्योपमासख्येय भागप्रदेशगुणोत्कृष्टा, तदुपरि रूपोत्तरादिवृद्ध्या जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यवगणात उत्कृष्टा स्वसङ्ख्येयभागप्रदेशगुणा, तदसङ्ख्येय भागोऽप्यसङ्ख्येयलोकात्मक इति द्वितीया शुभ्यवर्गणा, तदुपरि रूपादिवृद्ध्या बादरनिगोदशरीरवर्गणा जघन्यातः क्षेत्रपल्योपमासइख्येय भागप्रदेशगुणोत्कृष्टा, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातोऽसङ्ख्येयगुणा, को गुणकार इति ?, उच्यते, अङ्गुला सख्येयभागप्रदेशराशेरावलिकाकाला सङ्ख्येयभागसमवप्रमाणकृतपौनःपुन्यवर्गमूलस्यासङ्ख्येय भागप्रदेशप्रमाण इति, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा सूक्ष्मनिगोदशरीरवर्गणा, जघन्यात उत्कृष्टा आवलिकाकालासंख्येयभागसमयगुणा, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदा चतुर्थी शून्यवर्गणा, जघम्यात उत्कृष्टा चतुरस्रीकृतलोकस्यासङ्|ख्येयाः श्रेण्यः, ताश्च प्रतरासङ्ख्येयभागतुल्या इति, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जघन्यात उत्कृष्टा क्षेत्रपल्योपमस्या सख्येयगुणा संख्येयगुणा वेति । उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति । साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः, स च मनोवाक्कायलक्षणः पञ्चदशधा, कथमिति १, उच्यते, तत्र मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चतुर्द्धा एवं वाग्योगोऽपि, काय
Education International
For Park Use Only
[198]