________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१७६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
[६१]
दीप
द्वेषतिमिरोपप्लुतदृष्टेमनोज्ञेतरविषयोपलब्धौ सत्यां कषाया 'वर्तन्ते' प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादिविषयोद्भूत(ताः)कषायाः 'संसार संसारविषयं मूलस्थानमेवेति, एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजाना
नोऽतत्स्वभावेऽपि तत्स्वभावारोपणेनान्धादयन्धतमः कामी मोदते, यत आह-"दृश्य वस्तु परं न पश्यति जगदत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्सरिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमलतापल्लवा
नारोग्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥१॥" द्वेष वा कर्कशशब्दादौ बजतीति, ततश्च मनोज्ञेतरशब्दादिविपयाः कषायाणां मूलस्थानं, ते च संसारस्येति गाथातात्पर्यार्थः ॥ यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति ?, उच्यते, यतः कर्मस्थितेः कषाया मूलं, साऽपि संसारस्य, संसारिणश्चावश्यंभाविनः कषाया इति, एतदेवाह| -जह सव्वपायवाणं भूमीए पइडियाई मूलाई । इय कम्मपायवाणं संसारपइडिया मूला ॥ १७७॥
यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः ॥ ननु च कथमेतच्छ्रद्धेयं-कर्मणः कषाया मूल मिति?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतवः, तथा चागम:-"जीवे णं भंते! कतिहिं ठाणेहिं णाणावरणिज कम्मं बंधइ, गोयमा! दोहिं ठाणेहिं, तंजहारागेण व दोसेण व । रागे दुविहे-माया लोभे य, दोसे दुविहे-कोहे य माणे य । एएहिं चउहि ठाणेहिं वीरिओवगूहिएहिं
जीवो मदन्त । कतिभिः स्थान नावरणीयं कर्म बनाति !, गौतम। द्वाभ्यां स्थानाभ्या, तद्यथा-रागेण वा द्वेषेण वा । रागो द्विगिधो-माया लोभन, द्वेषो द्विविधः-कोषध मानक्ष, एतैश्चतुर्मिः स्थानवार्योपगूदानावरणीयं कम बनाति.
अनक्रम
[190]