________________
आगम
(०१)
प्रत
सूत्रांक
[६१]
दीप
अनुक्रम
[६२]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६१...], निर्युक्तिः [१७५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
स्थानं यो यत्र ग्रामगृहादौ वसति । संयमस्थानं संयमः - सामायिकच्छेदोपस्थापनीयपरिहार विशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्घयेयानि संयमस्थानानि, कियदसङ्ख्यमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षान्निर्देष्टुं शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्ख्येयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योशिकायत्वेन परिणता असङ्ख्येयगुणाः, ततोऽपि तत्कायस्थितिरसङ्घयेयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्घ धेयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यते-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्घयेयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तर्मुहर्त्तिकत्वादन्तर्मुहूर्त्तसमय तुल्यान्यसङ्ख्येयानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवाजघन्योत्कृष्टं संयमस्थानम्, अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्खयेयसंयमस्थाननिर्वर्त्तितं कण्डकं, तैश्चासङ्घयेयैर्जनितं षट्स्थानकं, तदसङ्घयेयात्मिका श्रेणीति । प्रग्रहस्थानं तु प्रकर्षेण गृह्यते | वचोऽस्येति प्रग्रहः- ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरथ, तस्य स्थानं प्रग्रहस्थानं, लौकिकं तावत्यश्वविधं तद्यथा-राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधं तद्यथा - आचार्योपाध्यायप्रवृतिस्थविरगणावच्छेदकभेदादिति । योधस्थानं पञ्चधा, तद्यथा-आलीढप्रत्यालीढवैशाखमण्डलसमपादभेदात् । अचलस्थानं तु चतुर्द्धा सादिसपर्यवसानादिभेदात्, तद्यथा-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानं जघन्यत एक समयमुत्कृष्टत्तश्चासङ्खधेयकालमिति, साधपर्यवसानं सिद्धानां भविष्यदद्धारूपम्, अनादिसपर्यवसानमतीताद्धारु
For Parts Use One
[188]
waryra