________________
आगम
(०१)
प्रत
सूत्रांक
[६१]
दीप
अनुक्रम
[६२]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६१...], निर्युक्तिः [१७२] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र - [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
एव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जवोपेतस्यर्जुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तं च-- "शाठ्यं हीमति गण्यते व्रतरुचौ दम्भः शुची कैतवं शूरे निर्घृणता ऋजी विमतिता दैन्यं प्रियाभाषिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्नाङ्कितः १ ॥ १ ॥" । अगुणगुणो नामागुण एव च कस्यचित् गुणत्वेन विपरिणमते, स च वक्रविषयो, यथा गौर्गलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च " गुणानामेव दौर्जन्याहुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौर्गलिः ॥ १ ॥ । भवगुणो नाम भवन्ति- उत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, स च जीवविषयः, तद्यथानारकास्तीव्रतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणादेवेति । शीलगुणो नाम परैराकुश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते । भावगुणो नाम भावाः-औद विकादयस्तेषां गुणो भावगुणः, स च जीवाजीवविषयः, तत्र जीवविषय औदयिकादिः पोढा, तत्रौदयिकः प्रशस्तोऽप्रशस्तश्च तीर्थकराहारकशरीरादिः प्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमश्रप्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षणस्तथा सत्कर्म्मानुदयलक्षणश्चेति, क्षायिकभावगुणश्चतुर्द्धा तद्यथा- क्षीणसस
१ . २ दौरात्म्यात् प्र.
Education International
For Parts Only
[184]