________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [४१], नियुक्ति: [१५१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[४१]
दीप अनुक्रम [४२]
प्रतिपादितं, न चोपलब्धिमात्रात्संसारप्रपातः, किन्तु यदि मूर्छा रूपादिषु करोति, ततोऽस्य बन्ध इति दर्शयितुमाह'उह'मित्यादि पुनरूद्वादेर्मू सम्बन्धनार्थमुपादानं, मूर्छन् रूपेषु मूर्छति, रागपरिणाम यान् रज्यते रूपादिष्वित्यर्थः, एवं शब्देष्वपि मूर्छति, अपिशब्दः सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पशों| गृहीता भवन्ति, 'एकग्रहणे तज्जातीयानां ग्रहणाद्, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति ॥ एवं विषयलोकमाख्याय विवक्षितमाह___एस लोए वियाहिए एत्थ अगुत्ते अणाणाए (सू० ४२)
'एप' इति रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यातः, लोक्यते परिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते शब्दादिगुणलोकेऽगुप्तो यो मनोवाकायैः मनसा द्वेष्टि रज्यते वा वाचा प्रार्थनं शब्दादीनां करोति कायेन शब्दादि| विषयदेशमभिसर्पति, एवं यो गुप्तो भवति सोऽनाज्ञायां वर्तते, न भगवत्प्रणीतवचनानुसारीतियावदिति ॥ एवंगुणश्च यत्कुर्यात्तदाह
पुणो पुणो गुणासाए, वंकसमायारे (सू०४३) ततश्चासावसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेनिवर्त्तयितुम् , अनिवर्तमानश्च पुनः पुनर्गुणास्वादो दि भवति, क्रियासातत्येन शब्दादिगुणानास्वादयतीत्यर्थः, तथा च यादृशो भवति तद्दर्शयति-वक्र:-असंयमः कुटिलो
For P
OW
[138]