SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-1] “आचार” – अंगसूत्र- १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ], उद्देशक [-], मूलं [–], निर्युक्ति: [-] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित .....आगमसूत्र - ०१], अंग सूत्र - ०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ १ ॥ इह हि रागद्वेपमोहाद्यभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसाने कातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यलो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताशेषातिशयकलापातोपदेशमन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात् स चाहत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, स च चतुर्धा, तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञत्यादिकः, द्रव्यानुयोगः पूर्व्वाणि सम्मत्यादिकश्च चरणकरणानुयोगश्चाचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात्, तदुक्तम्-चरणपडिवत्तिहेउं जेणियरे तिष्णि अणुओग"त्ति, तथा “चरणप डिवत्तिहेडं धम्मकहाकालदिक्खमादीया । दविए दंसणसोही दंसणसुद्धस्स चरणं तु ॥ १ ॥” गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम्“श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥ १ ॥" तस्मादशेषप्रत्यू| होपशमनाय मङ्गलमभिधेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं 'सुयं मे आउसंतणं भगवया एवमक्खाय मि त्यादि, अत्र च भगवद्वचनानुवादो मङ्गलम्, अथवा श्रुतमिति श्रुतज्ञानं तच्च नन्द्यन्तः पातित्वान्मङ्गलमिति, एतच्चाविघ्नेनाभिलषितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकसूत्रं 'से जहा केवि हरए पडिपुण्णे चिइ समंसि भोम्मे उवसन्तरए सारक्खमाणे' इत्यादि, अत्र च हृदगुणैराचार्य्यगुणोत्कीर्त्तनम् आचार्याश्च पश्ञ्चनमस्का १ चरणप्रतिपत्तिहेतवो येनेतरे प्रयोऽनुयोगाः । चरणप्रतिपत्तिहेतो धर्मकथा कालदीक्षादिकाः । इन्ये दर्शनशुद्धिदर्शनशुद्धस्य चरणं तु ॥ १ ॥ Jain duration intemational सूत्रस्य उपोद्घातः, चतुर् अनुयोगः For Parts Onl [13] अध्ययनं १ उद्देशकः १ ॥ १ ॥
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy