________________
आगम
(०१)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-1] “आचार” – अंगसूत्र- १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ], उद्देशक [-], मूलं [–], निर्युक्ति: [-]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित .....आगमसूत्र - ०१], अंग सूत्र - ०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १ ॥
इह हि रागद्वेपमोहाद्यभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसाने कातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यलो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताशेषातिशयकलापातोपदेशमन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात् स चाहत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, स च चतुर्धा, तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञत्यादिकः, द्रव्यानुयोगः पूर्व्वाणि सम्मत्यादिकश्च चरणकरणानुयोगश्चाचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात्, तदुक्तम्-चरणपडिवत्तिहेउं जेणियरे तिष्णि अणुओग"त्ति, तथा “चरणप डिवत्तिहेडं धम्मकहाकालदिक्खमादीया । दविए दंसणसोही दंसणसुद्धस्स चरणं तु ॥ १ ॥” गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम्“श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥ १ ॥" तस्मादशेषप्रत्यू| होपशमनाय मङ्गलमभिधेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं 'सुयं मे आउसंतणं भगवया एवमक्खाय मि त्यादि, अत्र च भगवद्वचनानुवादो मङ्गलम्, अथवा श्रुतमिति श्रुतज्ञानं तच्च नन्द्यन्तः पातित्वान्मङ्गलमिति, एतच्चाविघ्नेनाभिलषितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकसूत्रं 'से जहा केवि हरए पडिपुण्णे चिइ समंसि भोम्मे उवसन्तरए सारक्खमाणे' इत्यादि, अत्र च हृदगुणैराचार्य्यगुणोत्कीर्त्तनम् आचार्याश्च पश्ञ्चनमस्का
१ चरणप्रतिपत्तिहेतवो येनेतरे प्रयोऽनुयोगाः । चरणप्रतिपत्तिहेतो धर्मकथा कालदीक्षादिकाः । इन्ये दर्शनशुद्धिदर्शनशुद्धस्य चरणं तु ॥ १ ॥
Jain duration intemational
सूत्रस्य उपोद्घातः, चतुर् अनुयोगः
For Parts Onl
[13]
अध्ययनं १ उद्देशकः १
॥ १ ॥