________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
(३८
दीप अनुक्रम [३९]
तस्यां च बतौं प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेघेन, चूर्णितास्तु कदाचिदन्योऽन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहणं, यथाऽसौ पर्तिस्तथा प्रत्येकतरुशरीरसवातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषमचितकर्मपुद्गलोदयमिश्रिताः जीवाः, पश्चिमान गाथाया उपम्यस्तदृष्टान्तेन सह साम्यं प्रतिपादितं, तथेति शब्दोपादानादिति ॥ अस्मिन्नेधार्थे दृष्टान्तान्तरमाह
जह वा तिलसकुलिया बहुएहिं तिलहि मेलिया संती । पत्तेयसरीराणं तह हुँति सरीरसंघाया ॥ १३२ ।। यथा वा तिलशकुलिका-तिलप्रधाना पिष्टमयपोलिका बहुभिस्ति लैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसता भवन्तीति द्रष्टव्यमिति ॥ साम्प्रतं प्रत्येकशरीरजीयानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽह
नाणाविहसंठाणा दीसंती एगजीविया पत्ता । खंधावि एगजीवा तालसरलनालिएरीणं ॥१३३॥ नानाविध-भिन्न संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीना, नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ॥ साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह
पत्तेया पज्जत्ता सेढी' असंखभागमित्ता ते । लोगासंखप्पज्जत्तगाण साहारणाणता ॥ १३४॥ प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्त्रीकृतलोकश्रेण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुन
For P
OW
[126]