SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२८], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२८] दीप अनुक्रम [२९] पुढो सत्थेहिं विउद्दन्ति (सू०२८) "पृथग' विभिन्नलक्षणः नानारूपैरुत्सेचनादिशौस्ते अनगारायमाणाः 'विउदृन्ति'त्ति अप्कायजीवान् जीवनान्यावर्त्तयन्ति-व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुट्टन्ति-छिन्दन्तीत्यर्थः, कुहेर्द्धातोः छेदनार्थत्वात् । अधुनैषामागमानुसारिणामागमासारत्वप्रतिपादनायाह एत्थवि तेसिं नो निकरणाए (सू० २९) 'एतस्मिन्नपि प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति 'कप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए'त्ति एवंरूपस्तेषा-1| मयमागमो यद्बलादप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् 'नो निकरणाएत्ति नो निश्चयं कर्नु समों भवति, न केवलं तेषां युक्तयो न निश्चयायालम्, अपि वागमोऽपीत्यपिशब्दः, कथं पुनस्तदागमो निश्चयाय ४ नालमिति, अत्रोच्यते, त एवं प्रष्टव्याः-कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामप्कायारम्भः, त आहुः-प्रतिविहाशिष्ठानुपुर्वी विन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकर्तृको वा । ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्तव्यः, अनाप्तोऽसी अपकायजीवापरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिव, जीवत्वं चापां प्राक् प्रसाधितमेव, ततस्तत्रणीतागमोऽपि सद्धर्माचोदनायामप्रमाणम् , अनाप्तप्रणीतत्वात् , रथ्यापुरुषवाक्यवत्, अथ नित्योऽकर्तृकः समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्पतिपादं, यतः शक्यते वक्तुं भवदभ्युपगतः समयः सकर्तृको वर्णपदवा अप्कायस्य हिंसकाः [106]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy