________________
तपोनियमचतुर्मास्यामिव षष्ठतप एव प्रोक्तं स्यात् , तच्च नोक्तमित्येवं ग्रन्थोक्तयुक्तियुक्तपि चतुर्दश्यां पाक्षिककृत्ये पंचदश्यामेव पाक्षिककृत्यं विधेयमिति तु कोशपानप्रत्यायनीयमेव, अथ पाक्षिकत्वेन पंचदशी नाङ्गीकर्तव्येत्यत्र सूत्रसम्मतिज्ञापकमुत्तराईमाह-"किंतु"त्ति पंचदश्यां पाक्षिककृत्यं नोक्तमित्येव न, किं तु-किं पुनः द्वितीयांगे-सूत्रकृताङ्गनाम्नि चतुर्मास्यस्तिस्त्र एव पौर्णमास्य आराध्यत्वेन गृहिताः, तथाहि-"से पं लेवएगाहावई समणोवासगे अहिगयजीवाजीवे." इति सूत्रदेशस्य वृत्तिरियं, तथा चतुर्दश्यष्टम्यादिषु तिथिषु उद्दिष्टासु महाकल्याणकसंबंधितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चातुर्मासीकतिथिम्वित्यर्थः एवंभूतेषु धर्मदिवसेषु सुष्ठु-अतिशयेन प्रति पूर्णो यः पौषधो व्रताभिग्रहविशेषस्तं आहारशरीरब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् संपूर्णश्रावकधर्ममनुचरति" इति सूत्रकृताङ्गद्वितीय श्रुतस्कन्धलेपश्रावकव. र्णके, यदि पंचदश्यां पाक्षिकमभविष्यत् कथं तर्हि तिस्र एव पौर्णमासीरग्रहीष्यद् ग्रन्थकारः । तथा चोक्तं श्रीशत्रुञ्ज यमाहात्म्ये तृतीयसर्गाष्टमनवमशतयोः-यावजी विशेषेण, सोष्टमी च चतुर्दशी । प्रत्याख्यानपौषधादितपसाराधयत्यलं ॥ ६५ ॥
स चाष्टमी चतुर्दश्योः, पर्वणोस्तपसः कचित् । चाल्यते निश्चयात्रैष, कृतयत्नैः सुरैरपि ॥ ७६ ।।
जगौनृपतिरप्येवं, श्रुणु रंभे ! महात्रतम् । चतुर्दश्यष्टमी पर्व, तातेनोक्तं समस्तिनः ॥ ३२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com