SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पुद्गलजडभोगेषु, सुखं स्वेन प्रकल्प्यते। मिथ्यात्वबुद्धियोगेन, सुखं स्वाऽऽत्मनि निश्चयात्॥११०॥ जडपुगलभोगेभ्यो, जायते न सुखं ध्रुवम्। आत्मगुणः सुखं चास्ति, जडानां न गुणः सुखम् ॥१११॥ आरोपितं मयि व्यक्त, मन्य मिथ्यात्वबुद्धितः ततो भिन्नं निजाऽऽत्मानं, मन्ये समाधिमानहम् ॥११२॥ सर्वविकल्पसंकल्प,-त्यागेनाऽऽत्मा समाधिमान् । स्वेनानुभूयते स्वस्मि, नित्येवं निर्विकल्पकः ॥११३॥ ब्रह्मजीवनतोजीव !!, प्राणादेर्जीवनाच्च किम् । अनन्तं जीवनं तेऽस्ति, तत्स्वयं न क्षयोऽस्ति ते ॥११॥ अात्मशुद्धोपयोगेन, समाधिर्वर्तते सदा। जीवन्नाऽऽत्मा विदेहोऽपि, समाधिसुखमश्नुते॥११५॥ सोऽहमाऽऽत्मा मया प्रोक्तः, समाधिः स्वसमाधिना । समाधिं यान्तु सल्लोकाः, सत्यं सुखं च मङ्गलम् ॥११६॥ अष्टोत्तरशतैः श्लोकै,-रात्मसमाधिसंज्ञकः । कृतो ग्रन्थः समाध्यर्थं, बुद्धिसागरसूरिणा ॥११७॥ भारते गुर्जरे देशे, पेथापुरे च भावतः। चातुर्मास्यां कृतोग्रन्थः शान्तिसमाधिशर्मदः॥११८॥ खसिद्धिनिधिचन्द्राङ्के वैक्रमाब्दे च वत्सरे । श्रावणशुक्लसप्तम्यां, गुरौ ग्रन्थः कृतो मया ॥११९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy