SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (१४) सोऽहं तत्त्वमसि व्यक्तः, सोऽहं सोऽहं स्मराम्यहम् । विस्मृतोऽस्मि जगत्सर्वं, रागद्वेषमयं खलु ॥१०॥ गगनस्येव निःसङ्गं, चिदानन्दमयं निजम् । अनुभवामि जानामि, साक्षात्कारं निजाऽऽत्मनः ॥१०१॥ विश्वब्रह्मस्वरूपेण, साक्षादनुभवो मया। समाधिभावलीनेन, कृतः प्रत्यक्षमाऽऽत्मनः॥१०२॥ ग्राह्यं त्याज्यं च बाह्येषु, करोमि नैव मोहतः। शुभाशुभविचारेषु,-ग्राह्य त्याज्यं न मे समात्॥१०३॥ ग्राह्यं त्याज्यं च नो स्वस्मिन् , ब्रह्मोपयोगिनश्च मे । ग्राह्यत्याज्यागतो दूरं, ब्रह्माऽस्मि सर्वशक्तिमान् ॥१०४॥ अभिप्राया जगल्लोकैः, कल्पिता मित्रशत्रुभिः । मयि शुभा अयोग्याश्च, तत्र नाहं न ते मम ॥१०५॥ शुभाभिप्रायतो हर्ष, करोमि न कदाचन। अशुभान्नास्ति शोको मे, द्वाभ्यां भिन्नोऽस्मि चेतनः १०६ जगल्लोका न जानन्ति, मत्स्वरूपं विलक्षणम् ज्ञातारो मत्स्वरूपास्ते, परापरप्रकाशिनः ॥१०७ ॥ विस्मर !, नैव ते रूपं, स्मराऽऽत्मानं प्रतिक्षणम् । खादस्व स्वोपयोगेन, ब्रह्मानन्दं चणे चणे॥ १०८॥ सुखं पौगलिकं यत्त, पुद्गलान्नैव जायते। आत्मनसुखं तत्तु, स्वाऽऽत्मतो हि प्रजायते॥१०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy