SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ( ५७ ) निर्विकल्पसमाधिस्तु, सविकल्पसमाधिभिः । साध्यते स्वोपयोगेन, साधुभिर्मोक्षकारकः ॥ ३० ॥ मृत्युश्च मोहदेहादेः, समाधिर्मरणं मतम् । मृत्युकाले च निर्मोहः, समाधिमृत्युकारकः ॥३१॥ स्वर्ग च सद्गतिं याति, सविकल्पसमाधिमान् । याति मुक्तिं महाध्यानी, निर्विकल्पसमाधितः ॥३२॥ समाधिमृत्युलाभोऽस्ति, भक्तानां ज्ञानिनां ध्रुवम् । बिभ्यति मृत्युकाले न, निर्भया ज्ञानयोगिनः ॥३३॥ प्रात्मनः सत्यबोधेन, मृत्यभीति विनश्यति । मृत्युनिजाऽऽत्मनो नास्ति, तनुनाशोऽस्ति वस्त्रवत् ॥३४॥ वस्त्रनाशेन देहस्य, यथा नाशो न जायते । तथा देहविनाशेन, नाशो नास्ति निजाऽऽत्मनः ॥३५॥ यस्याऽस्ति जन्म तस्यास्ति, विनाशो नियमः खलु । नामरूपविनाशोऽस्ति, न नाशोऽस्ति निजाऽऽत्मनः ३६ आत्मद्रव्यं सदा नित्य,-मनित्यं ज्ञानपर्यवैः । शाश्वतोऽजोह्यखण्डोऽस्ति,चानन्तोऽस्ति सनातनः ॥३७॥ आत्माऽहं सर्वविश्वाऽऽत्मा, खपरद्रव्यपर्यवैः । अस्तिनास्तिमयः सर्वै, श्चिदानन्दमयोऽस्म्यहम् ॥३८॥ आरोग्यं प्राणदेहादेः, चणिकं विद्यते खलु । दर्शनज्ञानचारित्र्य,-मारोग्यमाऽऽत्मनोऽस्ति तत्।।३६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy