________________
( ३६ )
सर्वत्र सत्तया भाव्या, शुद्धाद्वैतस्य भावना | तया जागर्ति सद्देवो, देहस्थो भगवान् हरिः ॥ ३५० ॥ सर्वत्र सत्तया भाव्या, शुद्धाद्वैतस्यभावना | तया जागर्ति देहस्थः, शङ्करो निर्गुणो जिनः ॥३५१॥ सर्वत्र भावना भाव्या, होकाऽऽत्मनश्च सत्तया । अभेदब्रह्म जागर्ति, रागद्वेषौ विना हृदि ॥ ३५२ ॥ द्वैतं हि रागरोषस्थं, निर्जितं येन योगिना । शुद्धाद्वैतः स विज्ञेयो, जिनो राम्रो हरिहरः ॥ ३५३ ॥ एकेश्वरो हृदि व्यक्तो, निजाऽऽत्मा दृश्यते प्रभुः । देहसृष्टेः प्रकर्ताऽपि, चाकर्ता ब्रह्मभावतः ॥ ३५४ ॥ दर्शनज्ञानचारित्र - विशिष्टोऽनादि कालतः । आत्मैव कर्मनाशात्स, भवेन्नारायणः प्रभुः ॥ ३५५ ॥ तात्त्विकज्ञानरूपा न, शुद्धाद्वैतादिभावना । सा च चित्तविशुद्ध्यर्थं, भावनात्वौपचारिकी ॥ ३५६ ॥ औपचारिककर्तृत्वं, प्रभोः कर्तृत्वभावना |
"
भाव्या चित्तविशुद्ध्यर्थं विचित्ररुचिधारिभिः | ३५७ | शुद्धधर्मस्य कर्ता स, हर्ता मोहादिकर्मणाम् । कर्ता हर्ता ह्यपेक्षात, आत्मैव ज्ञायते जिनैः ॥ ३५८|| कर्ता हर्ता न कर्ताऽस्ति, हर्ता न च विलक्षणः । सर्वस्मिन्नपिभिन्नः स, सर्वतोऽलक्ष्यरूपवान् ॥ ३५६ ॥
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat