________________
( २२ ) श्रात्मनः श्रद्धया पूर्ण,-चारित्रं सत्प्रकाशते। पूर्णानन्दो भवेत्तेन, मुक्तिः पश्चाद्भवेद्धृवम् ॥ २१०॥
आत्मानमन्तरा ज्ञानं, सुखं जडे न विद्यते । विज्ञायैवं परप्रीत्या, स्मराऽऽत्मानं क्षणेक्षणे ॥२११॥
आत्मोपरि परं प्रेम, कुरुष्वाऽऽत्म निजाऽऽत्मना । प्रात्मराज्यं विना शांति.जंता न च भविष्यति॥२१२॥ अहं त्वं तन्न यत्राऽस्ति, मनश्चारोऽपि यत्र न । निर्विकल्पं परं ब्रह्म, ध्यानेन हृदि भासते ॥ २१३ ॥ प्रारब्धं देहपर्यन्त,-माऽऽत्मना सह तिष्ठति । अशुभे च शुभे व्यक्ते,-प्रारब्धे समतां धर ॥ २१४ ॥ सर्वजीवेषु मित्रत्वं, कुरुष्व ब्रह्मभावतः । सद्गुणानां कुरु प्रीति, माध्यस्थ्यं हृदि धारय ॥२१५॥ आत्मोपरि यथा प्रीति, स्तथा सर्वजनोपरि । शुद्धप्रीतिं कुरुष्वाऽऽत्मन् , क्रोधं वैरं विहाय भो ॥२१६॥ श्रेयः कुरु परप्रीत्या, वैरिणामपराधिनाम् ॥ मा कुरु वैरभावं त्वं, कलङ्कादिप्रदातृषु ॥ २१७ ॥ समभावं कुरु ज्ञाना,-वैरिषु स्तुतिकर्तृषु । अहितं मा कुरु क्रोधा,-रकेषांचिद् दुःखदायिनाम् ॥२१८॥ महापापोपरि क्रोधं, मा कुरू भव्यचेतन । विश्वोपरि कृपादृष्टिं, धारय करुणोदधे ॥ २१६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com