SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ( २१ ) तथापि ज्ञानिनो नास्ति, भोगेषु सुखबुद्धिता । अनादिकालतो दैव, बलेन तत्र वर्तनम् ॥ २०० ॥ आत्मज्ञानप्रकाशेऽपि, चारित्रे मोहभावतः । ज्ञानिनामपि मोहस्य,-चेष्टा भोगेषु वर्तते ॥ २०१ ॥ आत्मज्ञाने सति व्यक्ते, जाते स्वाचरणे हृदि । आत्मवीर्यप्रभावेण, मोहवीर्यं प्रणश्यति ॥ २०२ ॥ ततो भोगेषु मोहस्य,-बुद्धिश्चेष्टा न वर्तते । ततः पश्चान्न दासत्वं, मोहस्य ज्ञानिनां भवेत् ।।२०३॥ मोहाधीना महादासा, परतन्त्राश्च नास्तिकाः। जडेषु सुखमन्तारः, पापकार्यपरायणाः ॥२०४ ॥ आत्माधीनाः स्वतन्त्रा हि, ब्रह्मानन्दप्रवादिनः । हवा मोहादिकं कर्म, यान्ति मुक्तिं सुखालयम् ॥२०५॥ श्रात्मानमन्तरा ज्ञानं, सुखं कुत्राऽपि नास्ति वै । यत्र ज्ञानं सुखं तत्र, ब्रह्मसत्ता प्रवर्तते ॥ २०६ ॥ ज्ञानानन्दस्य लेशोऽपि, वैभाविको निजाऽऽत्मनि । चिदानन्दस्य लेशस्तु, कदापि न जडेषु हि ॥ २०७॥ जडभोगात्सुखं किञ्चिद्, यत्तत्तु स्वाऽऽत्मजं मतम् । जडस्य जडरूपत्वाज, ज्ञानं सुखं न तद्गुणः ॥२०८॥ शुद्धं च मिश्रितं ज्ञानं. सुखं वा स्वाऽऽत्मसंस्थितम् । अत:स्वाऽऽत्मनि संशोध्यं, ज्ञानं सुखं च सज्जनैः ॥२०६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy