SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ( १४ ) दर्शनं वर्तनं जीवैः सार्धमाऽऽत्मैक्यभावतः । भवेदध्याऽऽत्मबोधेन, ब्रह्मानन्दप्रकाशकम् ॥ १३० ॥ निजाऽऽत्मनि परप्रेम, कुरुष्व मोक्षहेतवे । श्रात्मानन्देन जीव !! त्वं, मा जीव !! देहजीवनात्॥१३१॥ चिदानन्दस्वरूपं हि, चेतनस्य स्वभावतः । यस्य प्रकाशते तस्य, साक्षादाऽऽत्मा प्रभुः स्वयम् ॥१३२॥ ज्ञानानन्दस्वरूपोऽस्ति, निजाऽऽत्मा शाश्वतः प्रभुः । याचको न च दीनोऽस्ति, लिङ्गी जातिर्न रूपवान् । १३३ । भिद्यते छिद्यते नैव, न च कालेन भक्ष्यते । द्रव्यरूपेण नित्योऽस्ति पर्यायेण ह्यशाश्वतः ॥ १३४॥ मृतोऽपि देहभावेन, ज्ञानानन्देन जीवति । जडानन्दविमुक्तो य, आत्मानन्दमहोदधिः ॥ ९३५ ॥ देहस्थितोऽपि वैदेह, आत्मारामो हरिहरः । स्वानुभवेन गम्योऽस्ति, सच्चिदान्दरूपवान् ॥ १३६ ॥ नाशो न देहनाशेऽपि, चेतनस्य स्वभावतः | भिन्नो यः पञ्चभूतेभ्यः सोऽहमाऽऽत्मा तनुस्थितः । १३७| स्वान्यविश्वस्य वेत्ताsहं, पुद्गलस्थो न पुनली । कर्मपर्याय भिन्नोऽस्मि, ब्रह्मरूपः सनातनः ॥ १३८ ॥ अनन्तज्ञानवान्पूर्णो, देवो विभुर्निरञ्जनः । निराकारश्च साकारो, ह्यलक्ष्यो चित्तबुद्धितः ॥ १३६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy