________________
(१३) निर्विकल्पं परब्रह्म, क्षणमात्रं मुहुर्मुहुः । पूर्णानन्दस्वरूपेण, मयाऽनुभूयते मयि ॥ १२० ॥ निर्विकल्पस्वरूपे तु, अहं त्वं तन्नभासते । ज्ञाता ज्ञानं तथा ज्ञेयं, तदैक्यं वर्तते स्वयम् ॥ १२१ ॥ सविकल्पं परब्रह्म, मुहुर्मुहु निजाऽऽत्मना। चिदानन्दस्वरूपेण, भृशं मयाऽनुभूयते ॥ १२२ ॥ आत्मैव परमाऽऽत्माऽस्ति, स्वाऽऽत्मना वेद्यते खलु । स्वाऽऽत्मानमन्तरा स्वान्य,-ज्ञाता कोऽपि न विद्यते।१२३। निजाऽऽत्मगुणपर्याय,-रक्षणं धर्म उच्यते ।
आत्मगुणस्य नाशो यो, हिंसैव कथ्यते बुधैः ॥१२४॥ साधनधर्मतो भिन्नः, साध्यधर्मो निजाऽऽत्मनि ।
आत्मतो नैव भिन्नोऽस्ति, स्वधर्मस्तु निजाऽऽत्मनि।१२५ बाह्यसाधनधर्माणां,-भेदेषु बाह्यदृष्टितः । अज्ञानिनः प्रमुह्यन्ति, प्रमुह्यन्ति न कोविदाः ॥१२६॥ शुद्धाऽऽत्मा साध्यते सद्भि-रसंख्यधर्मसाधनैः । देशकालदशाबोध,-रुचिवैचित्र्यधारकैः ॥ १२७ ॥ शुद्धप्रेम्णा प्रलीनास्ते, भवन्ति हि निजाऽऽत्मनि ।
आत्मसमं न जानन्ति, चक्रवादिकं पदम् ॥१२८॥ विश्वरूपं निजाऽऽत्मानं, भावयन्तो छपेचया । आत्मवद्विश्वजीवाँश्च, पश्यन्ति ब्रह्मभावतः ॥ १२६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com