________________
( ३ )
प्रतिक्षणं चिदाऽऽत्मान, मात्मशुद्धोपयोगतः । हृदि धृत्वा हि संस्मार्य, आत्माऽऽत्मना विशुध्यति ॥ २० ॥ सोऽहं सोऽहं परब्रह्म, निजाऽऽत्मैव तनुस्थितः । विज्ञानानन्दरूपोऽस्मि, हंसस्तत्त्वमसि ध्रुवम् ॥ २१ ॥ श्रात्माऽऽत्मानं विजानाति, सर्वविश्वं प्रतिक्षणम् । त्वमेव विश्वरूपोऽसि, स्वयं स्वपरपर्यवैः ॥ २२ ॥ मोक्षरूपस्त्वमेवाऽऽत्मा, मुक्तिर्निजाऽऽत्मनि ध्रुवम् । आत्मानमन्तरा किञ्चि, न्नास्ति सुखप्रदं भुवि ॥२३॥ वैषयिकपदार्थेषु, सुखं दुःखं न वस्तुतः | तत्र मिथ्यात्वबोधेन, मोही भवति मानवः ॥२४॥ सुखं दुःखं जडेष्वेव, मिथ्याबुद्ध्या प्रकल्प्यते । श्रात्मन्येव सुखं सत्यं ज्ञायते ब्रह्मबोधतः ॥ २५ ॥ आत्मज्ञानं विना शान्ति - जयेत न जगत्त्रये । अध्यात्मशान्तिलाभेन, प्राप्तव्यं नावशिष्यते ॥ २६॥ अध्यात्मज्ञानमात्रेण, सत्याऽऽत्मा हृदि दृश्यते । श्रात्मदर्शनलाभेन, मुक्तिर्भवति निश्चयः ॥ २७ ॥ वैषयिकपदार्थे र्हि, स्वाऽऽत्मविन्नैव बध्यते ।
,
ज्ञानिनो बन्धनं कर्तुं शक्तः कोपि न जायते ॥ २८ ॥ आत्मज्ञानेन निर्बन्ध, आत्मा प्रारब्धकर्मसु । भोगेरोगे च साक्ष्याऽऽत्मा, सक्रियोऽपि हि निष्क्रियः ॥ २६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com