SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ( २ ) संकल्पेभ्यो विकल्पेभ्यो, यदा मुक्तो भविष्यसि । निर्विकल्पोदधिं ब्रह्म, स्वाऽऽत्मानं द्रक्ष्यसि स्वयम् ॥१०॥ स्वातन्त्र्यं स्वाऽऽत्मनि व्यक्तं, मोहादिदोषवर्जितम् । पारतन्त्र्यं तु मोहेन, सर्वदा सर्वदेहिनाम् ॥ ११ ॥ स्वतन्त्र वीतरागोऽस्ति - निर्भयो ज्ञानवान् खलु । परतन्त्रः सदा मोही, स्वतन्त्रो भव चेतन ! ॥ १२ ॥ . कल्पनां बाह्यभावेषु, स्वातन्त्र्यपारतन्त्र्ययोः । सन्त्यज्य ब्रह्मणः सत्यं, स्वातन्त्र्यं प्रकटीकुरु ॥ १३ ॥ देहादिजडभावेषु, साक्षिभावेन वर्तनम् । भवेद् यदा तदाऽऽत्माऽसौ, जीवन्मुक्तः प्रभुः स्वयम्॥१४॥ आत्मैव ब्रह्मरूपोऽस्ति, कालस्य भक्षको महान् । कालो निर्भयो नित्यो, ज्ञात्वा स्वो भवति प्रभुः ॥ १५॥ निर्भयो भवति स्वाऽऽत्मा, ज्ञात्वाऽऽत्मानं समाधिमान् । हर्ष शोकं विना ज्ञानी, ब्रह्मभावेन जीवति ॥ १६ ॥ श्रात्मविदाऽऽत्मभावेन, सर्वदुःखात्प्रमुच्यते । जडतत्त्वावबोधेन, दुःखादाऽऽत्मा न मुच्यते ॥ १७ ॥ किं कोटिग्रन्थबोधेन, विद्यया सत्तया च किम् | किं धनेन च राज्येन, ब्रह्मज्ञानं विना वृथा ॥ १८ ॥ वैषयिक सुखावाप्ते - दुःखं प्रत्युत जायते । श्रात्मसुखं सदा नित्यं ज्ञात्वा चेतन !! मा मुहः ॥ १६॥ " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy