SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ मतेऽधश्रद्धया रागस्तयागो ज्ञानतो भवेत् । जातो लिंगे च मोक्षाश-स्तस्य मुक्ति ने जायते ॥४४४॥ पंचकारणसंघेन सम्यक्त्वेन निजाऽऽत्मनः । मोक्षो भवति लोकानां तत्र किश्चिन्न संशयः ॥४४६ ॥ भवमुक्त्यो नचाऽस्त्यादि-रनाद्यों द्वो प्रवाहतः। अनेकान्तस्य विश्वासान्मिलन्ति मुक्तिहेतवः ॥४४७ ॥ केवलज्ञानिनां वाणी श्रुतपूर्वा शिवावगा। सत्यं शब्दैकभावोऽस्ति तीर्थकृद्वचनं त्विदम् ॥४४८ ॥ एकशब्दोऽस्ति मोक्षादिः सत्यं तस्माद्विवेचय । यस्य बन्धोऽस्ति तन्मुक्ति स्तनासत्यं न कश्चन ॥ ४४६ ॥ शिष्य उवाच । पदस्थानकं भवत्प्रोक्तं गुरुदेवाऽनुकम्पया। श्रद्धया मे गतास्ते तु कुविचारा अनादिजाः ॥.४५० ।। अद्यपर्यन्तमज्ञानात्तत्वज्ञानं न लब्धवान् । वन्देऽहं सद्गुरो ! त्वां च पवित्रोऽहं कृतस्त्वया ॥४५१ ।। धर्मरत्नं मयालब्धं निधानं परमीक्षितम् । शरणं तेऽस्मि हे नाथ! कश्चिन्नास्ति त्वया समः ॥ ४५२ ॥ अनादिकालतो भ्रान्तः किन्तु नान्त मुपेयिवान् । सम्यक्तत्वप्रबोद्धारं गुणिनं त्वां नमाम्यहम् ॥४५३ ॥ शिष्य उवाच । कथं सिद्धालये मान्ति हनन्तसिद्धराशयः । निराकुरु च मे शङ्कां यस्माच्छङ्का न जायते ॥४५४ ।। सद्गुरुरुवाच. सिद्धशिलोपरि स्थानं शाश्वतं च प्रवर्तते । कर्मनाशेन जीवोऽयं भगवाँस्तत्र जायते ॥४५५ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy