SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ३८ परभावेषु जीवस्य त्वनन्तसमयो गतः । आत्मचिन्तनयोगेन मुक्तिरेव प्रकाशते संयोगेऽस्ति वियोगो हि दृष्टान्तोऽत्र कलेवरः । सर्वकर्मवियोगेन जायते मुक्तिरात्मनः शिष्य उवाच - ॥ ४३४ ॥ ।। ४३५ ।। अस्तिता याऽस्ति मोक्षस्य सा त्वस्माभिः प्रवेद्यते । ध्वंशः कदापि नैव स्यादनन्तभवकर्मणाम् ॥ ४३६ ।। भिन्नदर्शनधर्माश्च मुक्त्युपाया अनेकशः । तत्र सत्यमसत्यं किं चित्ते नास्त्यस्य निर्णयः ॥ ४३७ ॥ कुत्र देशे क्व जातो वा मोक्षः कुत्र पथि स्थितः । निश्चय स्तस्य नैव स्याद - भिलष्येत्तदात्र किम् ॥ ४३८ ॥ आदौ भवोऽथवा मुक्तिः को वाऽऽद्यो जीवसिद्धयोः । इत्यादौ चिन्तयँश्चित्ते मोक्षसिद्धि र्न जायते ॥ ४३६ ॥ सद्गुरुरुवाच । मोक्षो ज्ञानक्रियाभ्यां स्या- दूचे सूत्रं जिनेश्वरः । स्फुलिंगै दाते काष्ठं तथा ध्यानेन कल्मषः यस्यास्ति जन्मनो रोगो नीरोगी औषधाद्भवेत् । अनन्तभवभूतानां कर्मणां नाशतः शिवम् तमो व्याप्नोति संसारं नश्यति भास्करोदयात् । सत्यज्ञानं यतस्तत्र को भारः कर्मणां भवेत् यज्ज्ञानावरणीयाद्य-कर्मणामष्टकं मतम् । मोहनीयं ततःश्रेष्ठं प्रजासु भूपति यथा तन्नाशे सर्वनाशोऽस्ति जितभूपात्प्रजा यथा । कर्मनाशात्सुखं शश्वत्कः सत्येऽध्वनि संशयः Shree Sudharmaswami Gyanbhandar-Umara, Surat ।। ४४० ॥ ॥ ४४१ ॥ ॥ ३४२ ॥ ॥ ४४३ ॥ ॥ ४४४ ॥ www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy