SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ त्यक्त्वा रागादिकं शान्त्या खात्मध्यानं करिष्यति । सम्यग् ज्ञानक्रियाभ्यां स भगवान् हि भविष्यति ॥ १२ ॥ वक्ति कश्चिद् क्रियावादी तर्ताऽस्मि भवसागरम् । क्रियया कर्मनाशोऽस्ति ह्याचारः सफलो मम ॥ १३ ॥ बाह्यक्रियासु संलिप्तो नान्त स्तत्त्वस्य वेदकः । पर्यटन् स भवे भ्रान्तो निर्ज्ञानोऽसौ क्रियाजडी ॥ १४ ॥ ज्ञानं हि मन्यते कोऽपि ज्ञानं सत्यं जगन्महत् । मुक्तिः कुत्र विना ज्ञानं ज्ञानेन भवपारगः ॥ १५ ॥ गृहात्येकान्ततश्चैवं यश्च चित्ते कदाग्रही। विनात्मतत्त्वबोधेन, तत्त्वज्ञानं न जायते ॥ १६ ॥ युवत्यंगक्षणेनैव न तृप्ति विषयस्य च । भोजनज्ञानतो भ्रात ने बुभुक्षा प्रशाम्यति ।। १७ ।। वाक्पटुत्वेषु विद्वत्ता लोकरञ्जनहेतवे । वाचयन् पुस्तकं ग्रन्थं किं धत्ते शाश्वतं पदम् ॥ १८ ॥ परत्राऽहमतिर्याव दभिमानेन वर्तते । तावज्ज्ञानी न कोऽप्यस्ति न शिवस्थानमश्नुते ॥ १६ ॥ वैराग्यादिगुणबातो यदाऽऽत्मनि प्रकाशतेसमभावै निरीक्षेत परमात्मपदं विशेत् ॥ २० ॥ विना त्यागं च वैराग्य-मात्मज्ञानं न जायते । लभते न शिवं धाम-कदापि ज्ञानमन्तरा ॥ २१ ॥ तदाद्रियेत यद्युक्तं कदाग्रहनिवारणम् । वैराग्येषु मनः स्थाप्यं, रागश्च परमात्मनि ॥ २२ ॥ सम्यक्त्वमर्पितं येन गुरुदेवो महानसौमात्मज्ञानं विना लभ्यं शिवधाम कदापि न ॥ २३ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy