SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ जैनाचार्य बुद्धिसागरसूरिकृत--- परमात्मदर्शनम् । कल्पद्रु जङ्गम स्तीर्थं सत्यदेवोऽस्ति सद्गुरुः । सेवे भावेन तं वाचा कायेन मनसा तथा ॥ १ ॥ वेत्यात्मानं निजात्मैव, ज्ञायकः कोऽपि नाऽपरः । ज्ञाता स एक आत्मैव नित्यत्वेन प्रवर्तते ॥ २ ॥ स्वयमात्मनि मासि त्वं त्वदीयं त्वयि वर्तते - किं विधत्से ममेति त्वं पराशां हृदि धारयन् ॥ ३ ॥ विलोक्यात्मस्वरूपं हि ज्ञातं पुद्गलखेलनम् । आत्मा पृथक् च तेभ्योऽस्ति चिदानन्दो गुणाकरः ॥ ४ ॥ ध्यानेन यत्र पश्यामि स्थिरं सर्वं स्वरूपतः । स्वप्नोऽभून्मित्रशत्रू च गताऽनादिकुपीडना ॥ ५ ॥ परत्राऽहं धियं कृत्वा बद्धो जातः परत्र हि । आत्मन्यहंमति चेत्स्या - तत्क लिप्तो भवाम्यहम् ॥ ६ ॥ आत्मा जडैः सहाऽनादि - कालात्परिणतिं गतः । अशुद्धः परिणम्याऽसौ नाट्यरंगं करोति च ॥ ७ ॥ स्वस्याऽज्ञानेन दुखानि विविधानि स लब्धवान् । स्वपदज्ञानतः पश्चात् सिद्धो हि भगवानभूत् ॥ ८ ॥ मया यस्माद्गुरोर्ज्ञातो निज आत्मा सुखप्रदः । भावेन वाङ्मनःकायै नौमि गुरोः पदोर्युगम् ॥ ६ ॥ न कोऽपि भवदुःखानां हर्ताऽस्ति सद्गुरुं विना । वन्दे तं सद्गुरुं नित्यं साफल्यं जन्मनो भवेत् ॥ १० ॥ साध्यसाधनसापेक्ष आचारं यश्च पालयेत् । जयन्रागमदक्रोधांस्तजन्म सफलं भवेत् ॥ ११ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy