________________
(३२) वीर तेजोमय ब्रह्म, धन्योऽसि परमेश्वर ॥ बोधयामास मां देव, तेन भ्रान्ति र्गता मम ॥३०७॥ सर्वं सत्यं भवेद्राज्यं, सर्वज्ञोऽसि महाप्रभुः ॥ त्वमेवाऽसि ममाधारः, पूर्ण प्रेम मम त्वयि॥३०८॥ त्वच्छिता नयसापेक्षा, श्चाऽज्ञानां निरपेक्षकाः ॥ त्वच्छिक्षा मनुगन्ताऽस्मि, कृत्वा कर्माधिकारतः॥३०॥ सत्तया चैक आत्माऽस्ति, हनन्ता व्यक्तिभेदतः ॥ अात्मतत्त्वाखिला दृष्टि, स्तत्सृष्टिरह माभवम् ॥३१०।। स्याद्वादे त्वखिला धर्माः, संमान्तीति मया मतम् ॥ अनादिजैनधर्मोऽस्ति, नादि र्नान्तोऽस्ति तस्य तु॥३११॥ तव सेवा धृता सत्या, जैनधर्मप्रकाशक ॥ उत्तारय भवाम्भोधि, मामुद्धारय हे विभो ॥३१२ ॥ स्वार्पणं ते कृतं सर्वं, मिथ्याधीश्च मदो गतः॥ प्राप्ता तव कृपा सत्या, मोहो दुःखकरो न मे ॥३१३॥ जैनधर्मस्तु विश्वेषु, सर्वजीवेषु वर्तते ॥ जयकारो भवन्नाम्ना, शिवं शान्तिः प्रकाशताम् ॥३१४॥ शुद्ध ब्रह्म जिनो वीर, यस्य शिक्षोत्तमोत्तमा। जीवो जीवकराजोऽस्ति, स्वान्तरात्माख्य एव सः॥३१५॥ शुद्धजीवो हि सम्यक्त्वी, स्वात्मक्षेत्रं तु भारतः। आत्मा जिनोऽस्ति जैनश्च एतज्ज्ञानान्न दीनता ॥३१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com