________________
(३१) यत्र राजप्रजेऽशक्ते, ते स्यातां हि पदच्युते ॥ यत्र कामादिकोल्लासा, अन्ते पातो भवेत्ततः ॥२९७॥ यत्रातिविषयस्वार्था, अन्यायोपद्रवो यतः ॥ भवेद्राजप्रजापातो, राज्यं च परिवर्तते ॥ २६८ ॥ गच्छ सावहितो भूप, मच्छिक्षां हृदि धारय ॥ उभयोः सद्गुणो यत्र, मच्छक्तिर्जायते ततः ॥२६॥ वृद्धिरार्यप्रजेच्छाया, यतस्तत्र बजाऽध्वनि ॥ भवेदार्यप्रजोत्क्रान्ति-, हाणोपाय मीदृशम्- ॥३०॥ धात्री क्रीडयते बालं, बाह्यरागं दधाति च । सत्यप्रीतिस्तदन्तर्न, तथा त्यागे प्रवर्तय ॥ ३०१ ॥ मन्मना भूप वर्तस्व, विकशिष्यन्ति ते गुणाः ॥ मिथ्यागौं यतो नश्ये-, दात्मनिस्वार्पणं कुरु॥३०॥ जैनाश्चेद्गुणकर्मभ्यां, जीवन्धर्मस्ततो भवेत् ॥ तत्र मच्छक्तिरायाति, शान्तिं देशप्रजाऽश्नुते ॥३०३॥ मद्गुणानुचरा जैना, दीनास्ते न कदाचन ॥ आश्रयाः सर्वशक्तीनां, जैना भवन्ति भूतले॥३०४॥ आत्मावलम्बनेनैव, जीवक त्वं प्रभुभव ॥ मच्छिवां प्रेमतो लब्ध्वा, लभस्व सर्वमंगलम् ॥३०॥ त्वद्धितार्थमियं शिक्षा, कथिता मोक्षहेतवे ॥ वृणु सिद्धपदं तेन, स्यादात्मा स्वस्वरूपतः ॥३०६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com