________________
(४३) पीतानि सर्वाब्धिजलानि जीवैः संभक्षिताः पार्थिवपुद्गलाश्च ।
आत्माऽवबोधं च विना स्वतोषं, जाता न तेषां सुखशान्त्यवाप्तिः ॥ १०९॥ येऽङ्गीकरिष्यन्त्यथ जैनधर्म समेत्य ते मुक्ति मनन्तकालम् । सुखेषु वत्स्यन्ति तदत्र कार्ये दृढं मनः शाधि सुदर्शने त्वम् ॥ ११० ॥ अनन्तकालचक्राद्धि, मुक्तो भवितुमाऽऽत्मनः। ज्ञानदर्शनचारित्रा-, ण्येव सम्यगुपासय ॥ १११ ॥ आत्माऽभिन्नस्तथानित्यो, ज्ञानानन्दस्वरूपकः । आत्मन्यस्ति स वै धर्मः कर्मभिस्स तिरोहितः॥११॥ तीर्थकराणा मृषनादिकानां, सतांत्रयोविंशतिसंख्यकानाम् । आप्तश्चतुर्विंशतितीर्थकर्ता, अहं महावीरजिनोऽवतीर्णः मातापितृजने दिवंप्रतिगते नन्द्यादिपौराजनान् , जैनधर्ममुपादिशन्मृतिजवच्छोकापहारक्षमम् ॥ दीक्षाम्प्राप्य समेत्य केवलिदशा संस्थाप्य तीर्थ निजं, विश्वानुद्धृतवान्नसौ मम महा-वीरो विदध्याच्छिवम्११४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com