________________
( ४२ ) पूर्णोऽस्ति दुःखैरभितो भवोऽयं सैकाकिजीवो हि समेति याति ॥ १०३ ॥ सन्त्याऽऽत्मभिन्ना हि जडाः पदार्था देहोऽशुचिः सोऽपि ततो विजिन्नः । मिथ्यात्वरागाऽविरतिद्विषायै दोष भवत्येव हि कर्मबन्धः
॥१०४॥ मिथ्यात्वरागाविरतिद्विषां स, संरोधतः सम्वरनामतत्वम् । अनेकरीत्या तपसः क्रियानि, स्तत्त्वं भवेत्तत्खलु निर्जराख्यम् | ॥१०५॥ अनाद्यनन्तषद्रव्य-, मयोलोकः प्रवर्त्तते । शाश्वतो द्रव्यरूपेण, पर्यायैः सोह्यशाश्वतः ॥१६॥ सम्यज्ज्ञानमतीवदुर्लभतरं संसारघोरार्णवे, स्याद्वादप्रतिबोधकृजिनवरप्राप्ति महादुर्लभा । जैनोधर्म इहास्त्यनन्तसमयाकाले तथाऽनन्तके - वश्यं स्थास्यति नन्दिवर्द्धन सखे जानीहितनिश्चितम्
॥१७॥ अनेकवारं सह सर्वजीवै, मात्रादिसम्बन्ध इहानुभूतः । निजः परोवेति तु तत्र मोहै, आनी न मोहं कुरुते कदापि
॥१० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com